||Sundarakanda ||

|| Sarga 7||( Only Slokas in Devanagari) )

हरिः ओम्

Select Sloka Script in Devanagari / Telugu/ Kannada/ Gujarati /English

सुंदरकांड.
अथ सप्तमस्सर्गः

स वेश्मजालं बलवान् ददर्श व्यासक्त वैढूर्यसुवर्णजालम्।
यथामहत्प्रावृषि मेघजालम् विदुत्पिनद्धं सविहंगजालम्॥1||

निवेशनानां विविधाश्चशालाः प्रधानशंखायुधचापशालाः।
मनोहराश्चापिपुनर्विशालाः ददर्श वेश्माद्रिषु चंद्रशालाः॥2||

गृहाणि नानावसुराजितानि देवासुररैश्चापि सुपूजितानि।
सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि॥3||

तानि प्रयत्नाभिसमाहितानि मयेव साक्षादिव निर्मितानि।
महीतले सर्व गुणोत्तराणी ददर्श लंकाधिपतेर्गृहाणि॥4||

ततो ददर्शोच्छ्रितमेघरूपम् मनोहरं कांचनचारुरूपम्।
रक्षोsधिप स्यात्मबलानुरूपम् गृहोत्तमं ह्यप्रतिरूपरूपम्॥5||

महीतले स्वर्गमिव प्रकीर्णम् श्रियाज्वलंतं बहुरत्न कीर्णम्।
नानातरूणां कुसुमावकीर्णम् गिरेरिवाग्रं रजसावकीर्णम्॥6||

नारीप्रवेकैरिव दीप्यमानम् तटिद्भि रंभोदव दर्च्यमानम्।
हंसप्रवेकैरिव वाह्यमानम् श्रियायुतं के सुकृतं विमानम्॥7||

यथा नगाग्रं बहुधातुचित्रम् यथा नभश्च ग्रहचंद्रचित्रम्।
ददर्शयुक्तीकृत मेघचित्रम् विमानरत्नं बहुरत्न चित्रम्॥8||

महीकृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णा।
वृक्षाः कृता पुष्पवितानपूर्णाः पुष्पं कृतं केसर पत्र पूर्णम्॥9||

कृतानि वेश्मानिच पांडुराणि तथासुपुष्पाणपि पुष्कराणि।
पुनश्च पद्मानि स केसराणि धन्यानि चित्राणि तथा वनानि॥10||

पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च विवर्थ मानम्।
वेश्मोत्तमाना मपि चोच्चमानम् महाकपिस्तत्र महाविमानम्॥11||

कृताश्च वैढूर्यमया विहंगाः रूप्यप्रवाळैश्च तथा विहंगाः।
चित्राश्च नानावसुभि र्भुजंगाः जत्यानुरूपास्तुरगा श्शुभांगाः॥12||

प्रवाळजांबूनदपुष्पपक्षा स्सलील मावर्जितजिह्मपक्षाः।
कामस्य साक्षादिव भांति पक्षाः कृताविहंगा स्सुमुखास्सुपक्षाः॥13||

नियुज्यमानास्तु गजास्सुहस्ताः स केसराश्चोत्पलपत्त्रहस्ताः।
बभूव देवी च कृता सुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता॥14||

इतीव तद्गृहमभिगम्य शोभनम् सविश्मयो नगमिव चारु शोभनम्।
पुनश्च तत्परमसुगंधि सुंदरम् हिमात्यये नगमिव चारुकंदरम्॥15||

ततस्स् तां कपि रभिपत्य पूजितां चरन् पुरीं दशमुखबाहुपालिताम् ।
अदृश्यतां जनकसुतां सुपूजिताम् सुदुःखितः पतिगुणवेगवर्जिताम्॥16||

ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः।
अपश्यतोsभव दतिदुःखितं मन श्शुचक्षुषः प्रविचरतो महात्मनः॥17||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे सप्तमस्सर्गः॥

|| Om tat sat ||